|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.87. अध्यायः 087
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
भीष्मेण युधिष्ठिरम्प्रति रामविश्वामित्रयोरुत्पत्तिप्रकारकथनारम्भः॥ 1 ॥ च्यवनेन कुशिकराजमेत्य सभार्यं तम्प्रति स्वशुश्रूषाविधानम्॥ 2 ॥ सभार्येण कुशिकेन एकविंशतिदिवसाननवरतमेकपार्श्वेन प्रसुप्तस्य च्यवनस्य पादसंवाहनेन पर्युपासनम्॥ 3 ॥ ततः शयनादुत्थितेन मुनिना किञ्चिद्दूरं गत्वा पुनरन्तर्धानम्॥ 4 ॥

Mahabharata - Anushaasana Parva - Chapter Text
युधिष्ठिर उवाच।
संशयो मे महाप्राज्ञ सुमहान्सागरोपम।
तं मे शृणु महाबाहो श्रुत्वा व्याख्यातुमर्हसि॥ 13-87-1(84896)
कौतूहलं मे सुमहज्जामदग्न्यं प्रति प्रभो।
रामं धर्मभृतां श्रेष्ठं तन्मे व्याख्यातुमर्हसि॥ 13-87-2(84897)
`ब्राह्मे बले सुपूर्णानामेतेषां च्यवनादिनाम्।'
कथमेष समुत्पन्नो रामः सत्यपराक्रमः।
कथं ब्रह्मर्षिवंशोऽयं क्षत्रधर्मा व्यजायत॥ 13-87-3(84898)
तदस्य सम्भवं राजन्निखिलेनानुकीर्तय।
कौशिकश्च कथं वंशात्क्षात्राद्वै ब्राह्मणोऽभवत्॥ 13-87-4(84899)
अहो प्रभावः सुमहानासीद्वै सुमहात्मनोः।
रामस्य च नरव्याघ्र विश्वामित्रस्य चैव हि॥ 13-87-5(84900)
कथं पुत्रानतिक्रम्य तेषां नप्तृष्वथाभवत्।
एष दोषो महाप्राज्ञ तत्त्वं व्याख्यातुमर्हसि॥ 13-87-6(84901)
भीष्म उवाच। 13-87-7x(7069)
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
च्यवनस्य च संवादं कुशिकस्य च भारत॥ 13-87-7(84902)
एतं दोषं पुरा दृष्ट्वा भार्गवश्च्यवनस्तदा।
आगामिनं महाबुद्धिः स्ववंशे मुनिसत्तमः॥ 13-87-8(84903)
निश्चित्य मनसा सर्वं गुणदोषबलाबलम्।
दग्धुकामः कुलं सर्वं कुशिकानां तपोधनः॥ 13-87-9(84904)
च्यवनस्तमनुप्राप्य कुशिकं वाक्यमब्रवीत्।
वस्तुमिच्छा समुत्पन्ना त्वया सह ममानघ॥ 13-87-10(84905)
कुशिक उवाच। 13-87-11x(7070)
भगवन्सहधर्मोऽयं पण्डितैरिह चर्यते।
प्रदानकाले कन्यानामुच्यते च सदा बुधैः॥ 13-87-11(84906)
यत्तु तावदतिक्रान्तं धर्मद्वारं तपोधन।
तत्कार्यं प्रकरिष्यामि तदनुज्ञातुमर्हसि॥ 13-87-12(84907)
भीष्म उवाच। 13-87-13x(7071)
अथासनमुपादाय च्यवनस्य महामुनेः।
कुशिको भार्यया सार्धमाजगाम यतो मुनिः॥ 13-87-13(84908)
प्रगृह्य राजा भृङ्गारं पाद्यमस्मै न्यवेदयत्।
कारयामास सर्वाश्च क्रियास्तस्य महात्मनः॥ 13-87-14(84909)
ततः स राजा च्यवनं मधुपर्कं यथाविधि।
ग्राहयामास चाव्यग्रो महात्मा नियतव्रतः॥ 13-87-15(84910)
सत्कृत्य तं तथा विप्रमिदं पुनरथाब्रवीत्।
भगवन्परवन्तौ स्वो ब्रूहि किं करवावहे॥ 13-87-16(84911)
यदि राज्यं यदि धनं यदि गाः संशितव्रत।
यज्ञदानानि च तथा ब्रूहि सर्वं ददामि ते॥ 13-87-17(84912)
इदं गृहमिदं राज्यमिदं धर्मासनं च ते।
राजा त्वमसि शाध्युर्वीं भृत्योऽहं परवान्स्त्रिया॥ 13-87-18(84913)
एवमुक्ते ततो वाक्ये च्यवनो भार्गवस्तदा।
कुशिकं प्रत्युवाचेदं मुदा परमया युतः॥ 13-87-19(84914)
न राज्यं कामये राजन्न धनं न च योषितः।
न च गा न च वै देशान्न यज्ञं श्रूयतामिदम्॥ 13-87-20(84915)
नियमं किञ्चिदारप्स्ये युवयोर्यदि रोचते।
परिचर्योस्मि यत्ताभ्यां युवाभ्यामविशङ्कया॥ 13-87-21(84916)
एवमुक्ते तदा तेन दम्पती तौ जहर्षतुः।
प्रत्यब्रूतां च तमृषिमेवमस्त्विति भारत॥ 13-87-22(84917)
अथ तं कुशिको हृष्टः प्रावेशयदनुत्तमम्।
गृहोद्देशं ततस्तस्य दर्शनीयमदर्शयत्॥ 13-87-23(84918)
इयं शय्या भगवतो यथाकाममिहोष्यताम्।
प्रयतिष्यावहे प्रीतिमाहर्तुं ते तपोधन॥ 13-87-24(84919)
अथ सूर्योतिचक्राम तेषां संवदतां तथा।
अथर्षिश्चोदयामास पानमन्नं तथैव च॥ 13-87-25(84920)
तमपृच्छत्ततो राजा कुशिकः प्रणतस्तदा।
किमन्नजातमिष्टं ते किमुपस्थापयाम्यहम्॥ 13-87-26(84921)
ततः स परया प्रीत्या प्रत्युवाच नराधिपम्।
औपपत्तिकमाहारं प्रयच्छस्वेति भारत॥ 13-87-27(84922)
तद्वचः पूजयित्वा तु तथेत्याह स पार्थिवः।
यथोपपन्नमाहारं तस्मै प्रादाज्जनाधिप॥ 13-87-28(84923)
ततः स भुक्त्वा भगवन्दम्पती प्राह धर्मवित्।
स्वप्तुमिच्छाम्यहं निद्रा बाधते मामिति प्रभो॥ 13-87-29(84924)
ततः शय्यागृहं प्राप्य भगवानृषिसत्तमः।
संविवेश नरेशस्तु सपत्नीकः स्थितोऽभवत्॥ 13-87-30(84925)
न प्रबोध्योस्मि संसुप्त इत्युवाचाथ भार्गवः।
संवाहितव्यौ मे पादौ जागर्तव्यं च वां निशि॥ 13-87-31(84926)
अविशङ्कस्तु कुशिकस्तथेत्येवाह धर्मवित्।
न प्राबोधयतां तौ च दंपती रजनीक्षये॥ 13-87-32(84927)
यथादेशं महर्षेस्तु शुश्रूषापरमौ तदा।
बभूवतुर्महाराज प्रयतावथ दम्पती॥ 13-87-33(84928)
ततः स भगवान्विप्रः समादिश्य नराधिपम्।
सुष्वापैकेन पार्श्वेन दिवसानेकविंशतिम्॥ 13-87-34(84929)
स तु राजा निराहारः सभार्यः कुरुनन्दन।
पर्युपासत तं हृष्टश्च्यवनाराधने रतः॥ 13-87-35(84930)
भार्गवस्तु समुत्तस्थौ स्वयमेव तपोधनः।
अकिञ्चिदुक्त्वा तु गृहान्निश्चक्राम महातपाः॥ 13-87-36(84931)
तमन्वगच्छतां तौ च क्षुधितौ श्रमकर्शितौ।
भार्यापती मुनिश्रेष्ठस्तावेतौ नावलोकयत्॥ 13-87-37(84932)
तयोस्तु प्रेक्षतोऽरेव भार्गवाणां कुलोद्वहः।
अन्तर्हितोभूद्राजेन्द्र ततो राजाऽपतत्क्षितौ॥ 13-87-38(84933)
ततो मुहूर्तादाश्वस्य सह देव्या महामुनेः।
पुनरन्वेषणे यत्नमकरोत्स महीपतिः॥ ॥ 13-87-39(84934)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि सप्ताशीतितमोऽध्यायः॥ 87 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-87-11 अतिथिसेवाधर्म एव सहधर्मः स्त्रीसहितधर्मः॥ 7-87-37 मुनिश्रेष्ठो नच तावभ्यवारयदिति ट.थ.ध.पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|